धनसङ्ग्रहणम् २०१२/अनुवादः/प्रदर्शनफलकम्

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Fundraising 2012/Translation/Drop down banner and the translation is 100% complete.
NOTE TO TRANSLATORS

This letter is a new translation request, but re-uses large parts of

If these have been translated into your language, you can probably re-use much of it for this translation and hopefully a lot will be suggested with translation memory :-)

Texts

Banner

प्रियाः विकिपीडियापाठकाः: वयं स्वलाभरहिताः लघ्वाकारेऽपि सति संसारस्य पञ्चमस्थानभाजं जालस्थलं सञ्चालयन्तः स्म। अस्माकं पार्श्वे तु केवलं 150 सङ्ख्याकः कर्मचारिवर्गः अस्ति, परन्तु वयं 4500 लक्षान् प्रयोक्तॄन् सेवामहे, व्ययस्तु अस्माकमपि अन्येषां मूर्धन्यजालस्थलानां तुल्यमेव : परिवेषकानि, विद्युच्छक्तिः, भाटकं, तन्त्रांशाः, कर्मचारिवर्गश्च। विकिपीडिया तु किञ्चित् विशेषत्वेन वर्तते। एतत्तु ग्रन्थालयवद् अथवा सार्वजनिकोद्यानवद् अस्ति। एतत्तु मनसो निमित्ते मन्दिरवद् अस्ति, यत्र वयं सर्वे गत्वा चिन्तनं कर्त्तुं, शिक्षितुं चार्हामः। अस्माकं स्वातन्त्र्यं रक्षितुकामा वयं न कदापि विज्ञापनानि सञ्चालयिष्यामः। सर्वकारादपि वयं निधीः न स्वीकुर्मः। वयं दानैः सञ्चलामः, येषां मध्यमानं तु प्रायेण $30 मितम्। यदि एतं पठन् प्रत्येकः जनः चषकमितस्य काफीपेयस्य मूल्यं दीयात्, तर्हि अस्माकं अनुदानसञ्चयः होरेण एव समाप्नुयात्। विकिपीडिया भवदर्थम् उपयोगि वर्तते चेत्, एतत् जालस्थं (online) तिष्ठेद् इत्यर्थे निमेषात्मकः समयः दीयताम्। वयम् अनुदानसञ्चयं विस्मरामः, विकिपीडियाञ्च निवर्तामहे, इत्यर्थे अस्माकं साहाय्यं क्रियताम्। धन्यवादाः।


Dropdown

विकिपीडियायाः संस्थापनावसरे विज्ञापिकाफलकैः इयं संस्था लाभदायिका यथा स्यात् तथा अहं कर्तुम् अशक्ष्यं, किन्तु भिन्नं किञ्चित् कर्तुं निर्णीतवान् । वाणिज्यं तु समीचीनम्। विज्ञापनानि न दूषितानि भवन्ति। परन्तु तद् अत्र न स्यात्। विकिपीडियायां तु न हि। — Wikipedia Founder, Jimmy Wales


Donation Box

कृपया अनुदानसञ्चयम् अद्यैव समाप्तिं नेतुं यत्किञ्चिदपि भवान् दातुं शक्नोति तद् दीयताम्।


Legal info

धनदानेन विकिमीडियासंस्थया, यु. एस्. देशे अन्यत्र च विद्यमानाभिः अस्माकं डोनर् प्रैवेसि नीतीन् अनुवर्तमानाभिः सहयोगिसंस्थाभिः सह स्वीयविषयाः संविभक्ताः भवन्ति । इयं संस्था तावत् लाभोद्देशरहिता आयकरवर्जिता 501(c)(3), 20-0049703 पञ्जीकरणसङ्ख्यया यु.एस्.देशे प्रतिष्ठिता च वर्तते । अधिकविवरणाय अस्माकं नीतिसंहिता पठ्यताम् ।


Tab

पिधीयताम्