Jump to content

स्त्रीवादः लोकसाहित्यं च २०२६ (वि.सं. २०८२/२०८३)

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Feminism and Folklore 2026 and the translation is 44% complete.


  • Homepage
  • 2026
  • 2025
  • 2024
  • 2023
  • 2022
  • 2021
  • 2020
  • 2019
  • Commons homepage

स्त्रीवादः लोकसाहित्यं च लेखनप्रतियोगितायां भवतां स्वागतम्। एषा विकिपीडिया-माध्यमेन सांस्कृतिक-विविधतायाः लैङ्गिकसमावेशितायाः च प्रतिवर्षं क्रियमाणा उत्सवमयी प्रचेष्टा अस्ति। इयं प्रतियोगिता उत्साहियोगदानकर्तॄन् स्थानीय-सांस्कृतिक-कार्यक्रमाणां लोकसाहित्यसम्बन्धिगतिविधीनां तथा च प्रायशः उपेक्षितानां किन्तु महत्वपूर्णानां नारीयोगदानानां प्रलेखीकरणाय आमन्त्रयति। ‘Wiki Loves Folklore’ (WLF) इति अभियानस्य अविभाज्य अङ्गत्वेन एषः प्रकल्पः केवलं छायाचित्रकलायाः परिधेः बहिः गत्वा विकिपीडियालेखानां निर्माणविस्ताराभ्यां प्रभावि-आख्यानानां रचनायै प्रतिभागिनः प्रोत्साहयति।

पृष्ठभूमि

सहयोगात्मकज्ञानसृजनस्य भावनेन ओतप्रोता एषा ‘स्त्रीवादः लोकसाहित्यं च’ लेखनप्रतियोगिता स्थानीयसंस्कृतीनां परम्पराणां च तथा तत्र नारीणां विविधानां भूमिकानां व्यापकनिरूपणाय एकस्य समाधानरूपेण उद्भूता अस्ति। कथानां विधीनां प्रथानां च कोशरूपं लोकसाहित्यं विश्वभरस्य समुदायानां हृदयस्य अन्तः अवलोकनाय एकं विशिष्टं दृष्टिकोणं प्रदाति। स्थानीयकार्यक्रमाणां सजीवं चित्रणं वा भवतु लोकसाहित्यं स्वरूपं दत्तवतीनां नारीणामश्रुताः कथाः वा भवन्तु अथवा प्राचीनपरम्पराणामुपरि प्रकाशनिक्षेपः वा भवतु इयं प्रतियोगिता योगदानकर्तॄन् आख्यानकारत्वेन सशक्तं करोति।

अमूर्तसांस्कृतिकदायः स्त्रीवादलोकसाहित्ययोर्मध्ये कश्चन प्रबलो सेतुः वर्तते यः विकिपीडियामाध्यमेन पारम्परिकज्ञानक्षेत्रे विद्यमानलैङ्गिकभेदस्य निवारणे प्रमुखां भूमिकां निर्वहति। अस्मिन् दाये पीढीभ्यः आगताः जीवन्तअभिव्यक्तयः अन्तर्भवन्ति। नारीणामनुभवैः सम्बद्धानां कथानां प्रणाालीनां कलात्मकअभिव्यक्तीनां च प्रलेखीकरणेन वयं न केवलं लैङ्गिकभेदं दूरीकुर्मः अपितु सांस्कृतिककथासु तासां योगदानस्य दृश्यतामपि वर्धयामः।

प्रतियोगिताविवरणम्

अस्मिन् वर्षे एषा ‘स्त्रीवादः लोकसाहित्यं च’ लेखनप्रतियोगिता विशेषदृष्टिकोणं स्वीकृत्य ‘Wiki Loves Folklore’ इति बृहत्तरविषयस्य अन्तर्गतं स्त्रीवादविषयेषु नारीजीवनचरित्रेषु लैङ्गिककेन्द्रितविषयेषु च विशेषबलं ददाति।

लोकसाहित्यम्

प्रतिभागिनः विश्वभरस्य विविधान् लोकसाहित्यविषयान् अन्वेष्टुं प्रोत्साह्यन्ते। अस्य क्षेत्रे लोकउत्सवाः लोकनृत्याणि लोकसङ्गीतं लोकक्रियाः लोकक्रीडाः लोकभोजनानि पारम्परिकवेषभूषाः परिकथाः लोकनाट्यानि लोककलाः लोकधर्माः पौराणिककथाः इत्यादयः विषयाः समाविष्टाः सन्ति।

नारीलोकसाहित्यं च

अयं विषयः लोकसंस्कृतौ प्रायशः उपेक्षितानां नारीणां तथा च विचित्रलिङ्गिपुरुषाणां योगदानानि प्रकाशयितुम् आख्यानस्य विस्तारं करोति। प्रतिभागिनः लोककलाकाराणां लोकनर्तकानां लोकगायकानां लोकवादकानां लोकक्रीडापटूनां च कथानाम् अन्वेषणं कर्तुं शक्नुवन्ति तथा च पौराणिककथासु नारीणां चित्रणस्य गभीरमध्ययनं कर्तुं शक्नुवन्ति।

कालक्रमः

प्रतियोगिताप्रारम्भतिथिः ०१/०२/२०२६ ००:०० UTC (०५:३० भारतीयमानकसमयः)

प्रतियोगितासमापनतिथिः ३१/०३/२०२६ २३:५९ UTC (०५:२९ भारतीयमानकसमयः, ०१/०४/२०२६)

सहभागिताप्रक्रिया

  • स्थानीयआयोजकाः निर्णायकसङ्घश्च प्रभावीसहभागितायै आवश्यकाः सन्ति। तस्याः सूच्याः अन्वेषणम् अत्र कुर्वन्तु।
  • ‘Campwiz’-उपकरणं प्रकल्पानुसरणञ्च – आयोजकाः ‘Campwiz’ अथवा ‘Fountain’ अथवा ‘Dashboard’ इत्येषु मञ्चेषु अभियानसञ्चालनाय प्रोत्साह्यन्ते।
  • Article List Generator: Participants can access the list of relevant articles through the dedicated tool.
  • Article Creation or Expansion: Expand or create articles between 1 February and 31 March.

Local Judging Criteria/Rules

Minimum Length: 3000 bytes or 300 words.
Language Quality: High standard, no bad machine translation.
Timeline: Created/Expanded 1 Feb – 31 March.
Theme Relevance: Feminism and Folklore focus.
No Orphaned Articles: Must be linked.
No Copyright violations: Strict adherence required.
Adequate references: Proper citations required.

Prizes and Recognition

International Prizes

  • 🥇 1st prize: 300 USD
  • 🥈 2nd prize: 200 USD
  • 🥉 3rd prize: 100 USD
  • 🏅 Consolation top 10 winners: 50 USD each

Local Prizes

There will be local prizes for each Wikipedia editions which have signed up for 2026 edition.

  • 25 USD for 1st local prize
  • 20 USD for 2nd local prize
  • 15 USD for Best jury article.

Special Prize

Every participant will receive a Wikipedia 25 digital postcard.


(All prizes will be distributed in a coupon form that aligns with the local currency. No cash or transfers will be provided)